Class 10 Sanskrit Chapter 7 विचित्र साक्षी Hindi Translation

Class 10 Sanskrit Chapter 7 विचित्र साक्षी Hindi Translation & Question answer

Class 10 Sanskrit Chapter 7 विचित्र साक्षी :- कथा बंगला के सुप्रसिद्ध साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश के रूप में दिये गये एक फैसले पर आधारित है। इसके रचयिता श्री ओमप्रकाश ठाकुर हैं। चटर्जी जितने महान् साहित्यकार थे, उतने ही प्रसिद्ध न्यायाधीश भी रहे। नीर-क्षीर विभागार्थ वे कभी-कभी ऐसी युक्तियों का प्रयोग करते थे कि गवाह के अभाव में भी न्याय हो सके। इस कथा में भी विद्वान् न्यायाधीश ने एक ऐसी ही युक्ति का प्रयोग करके न्याय करने में सफलता पायी है।

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमु- पार्जितवान् तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत् एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः परमर्थ्यकार्थेन पीडितः स. बसयानं विहाय पदातिरेव प्राचलत् । पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत् । निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा । एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्त्तुं कञ्चिद् गृहस्थमुपागतः करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।

हिन्दी – अनुवादः – किसी गरीब व्यक्ति ने बहुत परिश्रम करके कुछ धन कमाया । उससे वह अपने बेटे को एक महाविद्यालय में प्रवेश दिलाने में समर्थ हो गया । उसका बेटा वहीं छात्रावास में रहता हुआ अध्ययन में संलग्न हो गया । एक दिन वह पिता बेटे की बीमारी (की बात सुनकर व्याकुल हुआ और बेटे को देखने के लिए चल दिया, परन्तु धन के अत्यधिक अभाव के कारण खिन्न हुआ वह बस को छोड़कर पैदल ही चल पड़ा।

पैदल ही लगातार चलते हुए सायंकाल को भी वह अपने गन्तव्य से दूर रहा (था) रात का अँधेरा फैलने पर ‘एकान्त प्रदेश में पैदल यात्रा हितकारी (कल्याणकारी) नहीं’ इस प्रकार सोचकर वह पास में बसे गाँव में रैन बसेरा करने के लिए किसी गृहस्थ के पास आया । करुणामय घर के मालिक ने उसे सहारा (आश्रय) प्रदान किया ।

विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अग्रहणाच्च परं विचित्रमघटत चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन् । यद्यपि ग्रामस्य आरक्षी एव चौर आसीत् । तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।

हिन्दी – अनुवाद:- भाग्य की लीला बड़ी अनोखी होती है। उसी रात में उस घर में कोई चोर घर के अन्दर घुस गया। वहाँ रखी एक पेटी को लेकर वह भाग गया। चोर की पदचाप से जागा हुआ अतिथि चोर की आशंका से चोर के पीछे दौड़ा और पकड़ लिया । लेकिन एक अनोखी घटना घटी कि उस चोर ने ही जोर-जोर से चीखना आरम्भ कर दिया ।

यह चोर है, यह चोर है’। उसके उच्च स्वर से जागे हुए गाँव में रहने वाले लोग अपने-अपने घर से निकलकर वहाँ आ गये और उस बेचारे अतिथि को ही चोर मानकर निन्दा करने लगे । वास्तव में गाँव का चौकीदार ही चोर था। तत्काल ही उस आरक्षी (रखवाले, पुलिसवाले) ने ‘यह चोर है’ ऐसा प्रचार करके उसे बंदीगृह अर्थात् जेल में डाल दिया।

अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोष भाजनम् । किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत् । ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः । तस्य मृतशरीरं राजमार्ग निकषा वर्तते । आदिश्यतां किं करणीयमिति न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् ।

हिन्दी अनुवाद:- अगले दिन वह चौकीदार (रक्षापुरुष) चोरी के मुकदमे में उस (अतिथि) को न्यायालय ले गया । न्यायाधीश बंकिमचन्द्र ने अलग-अलग विवरण (बयान) सुना। पूरे वृत्तान्त को जानकर उस (न्यायाधीश) ने उस (अतिथि) को निरपराध माना और रक्षापुरुष को अपराधी (माना) लेकिन प्रमाण के अभाव में वह (न्यायाधीश) निर्णय नहीं कर सका । तब उस (न्यायाधीश) ने उन दोनों (अतिथि एवं राजपुरुष) को अगले दिन उपस्थित होने के लिए आदेश प्रदान किया ।

दूसरे दिन उन दोनों ने न्यायालय में अपने-अपने पक्ष को फिर से स्थापित किया। तभी वहाँ के किसी रहने वाले ने आकर निवेदन किया कि यहाँ से दो कोस की दूरी पर कोई आदमी किसी के द्वारा मार दिया गया है, उसकी लाश सड़क के पास (समीप) है। आदेश दीजिए, क्या करना चाहिए । न्यायाधीश ने रक्षा पुरुष (सैनिक) और अभियुक्त को, उस शव को न्यायालय में लाने के लिए आदेश दिया ।

आदेशं प्राप्य उभौ प्राचलताम् तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ । आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः । भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् । स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच- ‘रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति प्रोच्य उच्चैः अहसत् । यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ ।

हिन्दी – अनुवाद:- आदेश पाकर दोनों (अभियुक्त और आरक्षी) ही चल पड़े वहाँ पास जाकर लकड़ी के तख्ते पर रखे हुए कपड़े से ढके हुए (मृत) शरीर को कन्धे पर ढोते हुए न्यायालय की ओर प्रस्थान किया । चौकीदार हृष्ट-पुष्ट शरीर वाला था (और) अपराधी कमजोर (दुबले-पतले शरीर वाला (था) ।

भारी लाश का कन्धे पर ढोना उसके लिए मुश्किल (कठिन कार्य) था। वह वजन की पीड़ा से चीख रहा था । उसके चीत्कार (रुदन) को सुनकर प्रसन्न हुआ चौकीदार उससे बोला-‘अरे दुष्ट! उस दिन तूने मुझे चोरी की पेटी को ले जाने से रोका था । अब अपनी करनी का फल भोग । इस चोरी के मुकदमे में तुम तीन वर्ष की कैद भोगोगे’ ऐसा कहकर वह जोर से हँसा । जैसे-तैसे दोनों ने लाश को लाकर चौराहे पर रख दिया।

न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे’ इति न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं- मुक्तवान् । अतएवोच्यते-दुष्कराण्यपि कर्माणि मतिवैभवशालिनः । नीतिं युक्ति समालम्ब्य लीलयैव प्रकुर्वते ।।

हिन्दी – अनुवाद:- न्यायाधीश ने फिर से उन दोनों को घटना के विषय में बोलने का आदेश दिया । रक्षापुरुष (चौकीदार) के अपने पक्ष को प्रस्तुत करने पर अर्थात् जब चौकीदार अपना पक्ष प्रस्तुत कर रहा था, तब एक आश्चर्यजनक घटना घटी। वह लाश लवादे चादर को दूर करके (फेंककर ) [उठ खड़ी हुई तथा] न्यायाधिकारी (जज) को अभिवादन करके (पुरुष रूप से) निवेदन करने लगी- “माननीय !

इस चौकीदार ने मार्ग में जो कहा था (मैं) उसका वर्णन करता हूँ- तुमने मुझे चोरी की पेटी को ले जाने से रोका था । अतः अब अपने किये हुए (करनी) का फल भोगो। इस चोरी के आरोप में तुम तीन वर्ष का कैद का दण्ड पाओगे ।” न्यायाधीश ने चौकीदार सिपाही को कैद के दण्ड का आदेश (आज्ञा देकर उस व्यक्ति (अतिथि) को ससम्मान ( सम्मान के साथ) मुक्त कर दिया । इसलिए कहा जाता है- बुद्धिमान् लोग नैतिक तरीके का सहारा लेकर कठिनाई से किये जाने योग्य कार्यों को भी खेल ही खेल में कर लेते हैं।

प्रश्न 1. एकपदेन उत्तरं लिखत-
(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तर विजने प्रदेशे।
(ख) अतिथिः केन प्रबुद्धः ?
उत्तर चौरस्य पादध्वनिना।
(ग) कृशकायः कः आसीत् ?
उत्तर अभियुक्तः ।
(घ) न्यायाधीशः कस्मै कारागार दण्डम् आदिष्टवान् ?
उत्तर आरक्षिणे।
(ङ) के निकषा मृत शरीरेण आसीत् ?
उत्तर राजमार्गम् ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान् ?
उत्तरम् – निर्धनः जनः भूरि परिश्रम्य वित्तम् उपार्जितवान्

(ख) जनः किमर्थ पदातिः गच्छति ?
उत्तरम् – जनः परमर्थकायेन पीडितः बसयानं विहाय पदातिरेव गच्छति ।
(ग) प्रसृते निशान्धकारे सः किम् अचिन्तयत् ?
उत्तरम् – सोऽचिन्तयत् यत् निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा ।
(घ) वस्तुतः चौरः कः आसीत् ?
उत्तरम् – वस्तुतः चौरः आरक्षी आसीत् ।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?
उत्तरम् – ‘रे दुष्ट । तस्मिन् दिने त्वयाऽहम् चोरितायाः मञ्जूषायाः ग्रहणात् वारितः। इदानीं निज कृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।’
(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति ?
उत्तरम् – मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्तिं समालम्ब्य लीलयैव साधयन्ति ।

प्रश्न 3. रेखांकितपदमाधृत्य प्रश्ननिर्माण कुरुत-
(क) पुत्रं द्रष्टुं सः प्रस्थितः ।
उत्तरम् – के द्रष्टुं सः प्रस्थितः ?
(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
उत्तरम् – गृही कस्मै आश्रयं प्रायच्छत् ?
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः ।
उत्तरम् – कस्य पादध्वनिना अतिथिः प्रबुद्धः ?
(घ) न्यायाधीशः बंकिमचन्द्रः आसीत् ।
उत्तरम् – न्यायाधीशः कः आसीत् ?
(ङ) सः भारवेदनया क्रन्दति स्म ।
उत्तरम् – सः कया क्रन्दति स्म ?
(च) उभौ शवं चत्वरे स्थापितवन्तौ ।
उत्तरम् – उभौ शवं कुत्र स्थापितवन्तौ ?

प्रश्न 4. मधानिर्देशमुत्तरत-
(क) आदेशं प्राप्य उभौ अचलताम् अत्र किं कर्तृपदम् ?
उत्तरम् – उभौ ।
(ख) एतेन आरक्षिणा अध्वनि यदुक्तं तदवर्णयामि ? अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तरम् – अध्वनि ।
(ग) ‘करुणापरो गृही तस्मै आश्रय प्रायच्छत् अत्र ‘तस्मै’ इति सर्वनाम पदं कस्मै प्रयुक्तम् ?
उत्तरम् – अतिथये ।
(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम् ?
उत्तरम् – आदिष्टवान् ।
(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिना?’ अत्र विशेष्य पदं किम् ?
उत्तरम् – कर्माणि ।

प्रश्न 5. सन्धि / सन्धिविच्छेदं च कुरुत-
उत्तरम् (क) पदातिरेव = पदातिः + एव
(ख) निशान्धकारे निशा + अन्धकारे
(ग) अभि + आगतम् अभ्यागतम्
(घ) भोजनान्ते भोजन + अन्ते
(ङ) चौरोऽयम् = चौरः+अयम्
(छ) लीलयैव = लीलय+ एव
(ज) यदुक्तम् = यत् + उक्तम्
(झ) प्रबुद्धः + अतिथिः प्रबुद्धोऽतिथिः

प्रश्न 6. अधोलिखितानि पदानि भिन्न-भिन्न प्रत्ययान्तानि सन्ति। तानि पृथक् कृत्या निर्दिष्टानां प्रत्ययानामधः लिखत-
परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम् आदिष्टवान्, समागत्य, मुदितः

ल्यप्क्त:क्तवतुतुमुन्
परिश्रम्यप्रस्थितःउपार्जितवान्द्रष्टुम्
विहायप्रविष्टःपृष्टवान्निर्णेतुम्
आदायनियुक्तःआदिष्टवान्दापयितुम्
समागत्यमुदित:नीतवान्क्रोशितुम्

प्रश्न 7. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयतः
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान् ।
उत्तरम् – ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः ।
(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्
उत्तरम् – चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन् ।
(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः ।
उत्तरम् – केचन चौराः गृहाभ्यन्तरं प्रविष्टाः ।
(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्ष स्थापितवन्तौ ।
उत्तरम् – अन्येद्युः ते न्यायालये स्व-स्व-पक्ष स्थापितवन्तः

(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) सः निष्क्रम्य बहिरगच्छत् । (गृहशब्दे पंचमी)
(ख) गृहस्थ: आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
(ग) तौ…….. प्रति प्रस्थितौ । (न्यायाधीशशब्दे द्वितीया)
(घ) चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यये। (इदम् शब्दे सप्तमी)
(ङ) चौरस्प प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)

उत्तरम् (क) सः गृहात् निष्क्रम्य बहिरगच्छत् ।
(ख) गृहस्थः अतिथये आश्रयं प्रायच्छत् ।
( ग) ती न्यायाधीशं प्रति प्रस्थितौ ।
(घ) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।
(ङ) चौरस्य पादध्वनिना प्रबुद्धः अतिथिः ।

Leave a comment